==========================ரிஷிகளின் வினா==========================
मनुमेकाग्रमासीनमभिगम्य महर्षयः ।प्रतिपूज्य
यथान्यायमिदं वचनमब्रुवन् ॥ १ ॥
மஹரிஷிகள், (மனதை) ஒருமுக படுத்தி அமர்ந்திருந்த (ஸ்வாயம்புவ) மனுவை அணுகி, அவரை நியாயப்படி பூஜித்து, இந்த வார்த்தைகளை கூறினர் || 1 ||
भगवन् सर्ववर्णानां
यथावदनुपूर्वशः ।
अन्तरप्रभवानां च धर्मान्नो वक्तुमर्हसि ॥ २ ॥
“பகவானே! அனைத்து வர்ணங்களின் மற்றும் கலப்பு வர்ணங்களின் தர்மங்களை சரியாகவும், முறையாகவும் எங்களுக்கு சொல்லிட வேண்டும். || 2 ||
त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयम्भुवः ।
अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित् प्रभो ॥ ३ ॥
“பிரபுவே, தாம் மட்டுமே சிந்தனைக்கு அப்பாற்ப்பட்ட, ஒப்பற்ற சுயம்புவின் விதிகள் அனைத்தையும், காரியங்களின் தத்துவங்களையும் அறிந்தவர்.” || 3 ||
==========================மனுவின் பதில்==========================
स तैः पृष्टस्तथा सम्यगमितोजा
महात्मभिः ।
प्रत्युवाचार्च्य
तान् सर्वान् महर्षींश्रूयतामिति ॥ ४ ॥
आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।
अप्रतर्क्यमविज्ञेयं
प्रसुप्तमिव सर्वतः ॥ ५ ॥
ततः
स्वयम्भूर्भगवानव्यक्तो व्यञ्जयन्निदम् ।
महाभूतादि वृत्तोजाः
प्रादुरासीत् तमोनुदः ॥ ६ ॥
योऽसावतीन्द्रियग्राह्यः
सूक्ष्मोऽव्यक्तः सनातनः ।
सर्वभूतमयोऽचिन्त्यः
स एव स्वयमुद्बभौ ॥ ७ ॥
सोऽभिध्याय शरीरात्
स्वात् सिसृक्षुर्विविधाः प्रजाः ।
अप एव ससर्जादौ तासु
वीर्यमवासृजत् ॥ ८ ॥
तदण्डमभवद्धैमं
सहस्रांशुसमप्रभम् ।
तस्मिञ्जज्ञे स्वयं
ब्रह्मा सर्वलोकपितामहः ॥ ९ ॥
आपो नारा इति
प्रोक्ता आपो वै नरसूनवः ।
ता यदस्यायनं पूर्वं
तेन नारायणः स्मृतः ॥ १० ॥
यत् तत् कारणमव्यक्तं
नित्यं सदसदात्मकम् ।
तद्विसृष्टः स पुरुषो
लोके ब्रह्मैति कीर्त्यते ॥ ११ ॥
तस्मिन्नण्डे स
भगवानुषित्वा परिवत्सरम् ।
स्वयमेवात्मनो
ध्यानात् तदण्डमकरोद् द्विधा ॥ १२ ॥
ताभ्यां स शकलाभ्यां
च दिवं भूमिं च निर्ममे ।
मध्ये व्योम
दिशश्चाष्टावपां स्थानं च शाश्वतम् ॥ १३ ॥
उद्बबर्हात्मनश्चैव
मनः सदसदात्मकम् ।
मनसश्चाप्यहङ्कारमभिमन्तारमीश्वरम्
॥ १४ ॥
महान्तमेव चात्मानं
सर्वाणि त्रिगुणानि च ।
विषयाणां ग्रहीतॄणि
शनैः पञ्चैन्द्रियाणि च ॥ १५ ॥
तेषां त्व् अवयवान्
सूक्ष्मान् षण्णाम् अप्यमित-ओजसाम् |
संनिवेश्य-अत्ममात्रासु
सर्वभूतानि निर्ममे ||
१६ ||
यन् मूर्त्यवयवाः
सूक्ष्मास्तानीमान्याश्रयन्ति षट् ।
तस्माच्छरीरमित्याहुस्तस्य
मूर्तिं मनीषिणः ॥ १७ ॥
तदाविशन्ति भूतानि
महान्ति सह कर्मभिः ।
मनश्चावयवैः
सूक्ष्मैः सर्वभूतकृदव्ययम् ॥ १८ ॥
तेषामिदं तु सप्तानां
पुरुषाणां महौजसाम् ।
सूक्ष्माभ्यो
मूर्तिमात्राभ्यः सम्भवत्यव्ययाद् व्ययम् ॥ १९ ॥